०६८

अथाभीशवमभ्यारम्भो यज्ञस्य प्रत्यपसारोऽभ्येव पञ्चममहरारभते प्रति तृतीयमपधावति ।

द्वादशाहेन वै देवा ऊर्ध्वा स्वर्गं लोकमायन् ।

स एषामसङ्गृहीतो वीवास्रंसत ।

त एते सामनी अपश्यन् ।

ताभ्यामेनं यथाभीशुभ्यां रथं सङ्गृह्यारोहेदेवमेवाभ्यां सङ्गृह्य्स्वर्गं लोकमारोहन् ।

तेऽब्रुवन्स्वर्गं लोकं गत्वा अभीशू वाव न इमे सामनी यज्ञस्याभूतामिति ।

तदेवाभीशवयोराभीशवत्वम् ।

ते एते स्वर्ग्ये सामनी ।

अश्नुते स्वर्गं लोकं य एवं वेद ।

तस्मादु हिते सामनी उभे कार्ये ।

यथा हैकाभीशुना यायादेवं तद्यदन्यतरद् । अथ यथोभयाभीशुना यायादेवं तद्यदुभे ।

तस्मादुभे एव कार्ये ।

अत्रान्यत्स्यान्नवमेऽहन्नन्यतरत् ।

अभीशुर्वै श्यावाश्विरकामयत देवा मे सोमस्य तृप्येयुरिति ।

स एते सामनी अपश्यत् ।

ताभ्यामस्तुत ।

ततो वै तस्य देवास्सोमस्यातृप्यन् ।

तयोर्वा एतयोरस्त्यपसिद्धमिव यथैव तर्पयेदेवम् ।

ए ए इति वा अपसेधन्तस्सन्तर्पयन्ति ।

ते एते तृप्तिस्सामनी ।

तृप्यन्त्यस्य देवास्सोमस्य य एवं वेद ।

यद्वभीशुश्श्यावाश्विरपश्यत् । तस्मादाभिशवे इत्याख्यायेते ६८