अथ निधनकामं वैराजम् ।
एवमिव वै विराड्नैव स्वारं नैव निधनवन्नैवैळं वैनर्क्समम् ।
तद्वाङ्निधनं भवति ।
वाग्वै विराड् । विराज एवारम्भाय ।
विराजमेवैतेन प्रत्यक्षमारभन्ते ।
तस्य हैतस्य निधन एव कामाः ।
स यं कामं कामयेत तं ध्यायेद् । एतस्य निधनमुपावयन् ।
स हैवास्मै कामस्समृध्यते ।
यद्वस्य निधने कामास्तस्मान्निधनकामं वैराजमित्याख्यायते ।
देवा वै स्वर्गकामास्तपोऽतप्यन्त ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
ततो वै ते स्वर्गं लोकमाश्नुवत ।
तदेतत्स्वर्ग्यं साम ।
अश्नुते स्वर्गं लोकं य एवं वेद ।
तस्यैतदेव निधनं यमेतं वैराजस्य स्तोत्रेऽग्निं मन्थन्ति ।
तवाहं सोम रारणे
ति तवेति भवति बृहतो रूपम् ।
बार्हतमेतदहः ।
सख्य इन्दो दिवेदिवे ।
पुरूणि बभ्रो नि चरन्ति मामव परिधींरति तं इहि
इत्यति ह्यायन् ।
तवाहं नक्तमुत सोम ते दिवा दुहानो बभ्र ऊधनीतीमे ह वावोधनी ।
एते एवैतदभिवदत्य् । एते एवास्मै सर्वान्कामान्दुहाते ।
घृणा तपन्तमति सूर्यं पर
इति सूर्यवतीर्भवन्ति ।
सौर्यं ह्येतदहरेकविंशं प्रतिष्ठा वैराजम् ।
शकुना इव प्रतिमे
त्यति ह्यपतन् ।
तास्वाष्टादंष्ट्रमुक्तप्राह्मणम् ।
तदूर्ध्वेळं भवति बृहतो रूपं बार्हतेऽहन् ।
तेन वै रूपं समृद्धम् ६७