पवस्व दक्षसाधन
इति माध्यन्दिनस्य पवमानस्य दक्षवतीर्गायत्र्यो भवन्ति ।
अहरेवैताभिर्दक्षयन्ति । छन्दांसि दक्षयन्ति । देवता दक्षयन्ति । षोडशिनं दक्षयन्ति ।
देवेभ्यः पीतये हरे मरुद्भ्यो वायवे मद
इति मरुत्वतीर्भवन्ति ।
मरुत्वद्वै मध्यन्दिनस्य रूपम् ।
मध्यन्दिनस्यैव तद्रू पान्न यन्ति ।
सं देवैश्शोभते वृषे
ति वृषण्वतीर्भवन्ति बृहतो रूपम् ।
बार्हतमेतदहः ।
पवमान धिया हितोऽभि योनिं कनिक्रदद्
इति योनिमतीर्भवन्ति ।
योनेर्वै प्रजाः पशवः प्रजायन्ते ।
जनद्वदेतस्य वैराजस्याह्नो रूपम् ।
धर्मणा वायुमा
रुहेति वायुमतीर्भवन्ति वायुर्वै शान्तिश्शान्त्या एवानिर्दाहाय ।
तासु गायत्रमुक्तब्राह्मणम् ।
अथ चतुर्णिधनमाथर्वणं चतुर्थस्याह्नो रूपम् ।
अथर्वाण उपरि श्येनं स्वर्गं लोकमायन् ।
ते तत्र न प्तर्यतिष्ठन् ।
तेऽकामयन्त प्रति स्वर्गे लोके तिष्ठेमेति ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
ततो वै ते स्वर्गे लोके प्रत्यतिष्ठन् ।
तच्चतुर्निधनं भवति प्रतिष्ठायै चतुष्पदीव प्रत्यतिष्ठादिति वा आहुः ।
सुप्रतिष्ठितं तदेतत्स्वर्ग्यं प्रतिष्ठासाम ।
गच्छति स्वर्गं लोकं । प्रति स्वर्गे लोके तिष्ठति य एवं वेद ।
तदु भेषजमेव प्रायश्चित्तिः ।
अथर्भवमिवै भेषजं कुर्वन्ति ।
भेषजमेवैतेन प्रायश्चित्तिं कुर्वते ।
तदनुतुन्नं भवति ।
अनुतुन्नाद्वै प्रजाः पशवः प्रजायन्ते ।
अनुतुन्नमेवैतस्य वैराजस्याह्नो रूपम् ।
तेन वै रूपसमृद्धम् ।
यद्वथर्वाणोऽपश्यंस्तस्माच्चतुर्णिधनमाथर्वणमित्याख्यायते ६६