०६५

स ह तैरेवास्थिभिर्नव नवतीर्जघानासुराणाम् ।

तदेतद्भ्रातृव्यहा विजितिः ।

इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः ।

जघान नवतीर्नव

इति ।

विजयते हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद ।

अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् ।

इत्था चन्द्र मसो गृहे

इति गोमतीः पशुमतीर्भवन्ति पशूनामेवावरुद्ध्यै ।

इयं वामस्य मन्मन

इत्यैन्द्रा ग्नं भवति ।

इन्द्रा ग्नी पूर्व्यस्तुतिः ।

अभ्राद्वृष्टिरिवाजनि

इति ।

अजनीति वा आहुर्जातम् ।

जायत उ एतेनाह्ना ।

शृणुतं जरितुर्हवमिन्द्रा ग्नी वनतं गिरः ।

ईशाना पिप्यतं धियः

मा पापत्वाय नो नरेन्द्रा ग्नी माभिशस्तये ।

मा नो रीरधतं निदे

इति पाप्मन एवैषोपहतिः ।

एकविंश स्तोमो भवति ।

द्वादश मासाः । पञ्चर्तवस् । त्रय इमे लोका । असावादित्य एकविंशः ।

एतस्य वा एते सलोकतां गच्छन्त्येतमभ्यारोहन्ति ६५