दध्यङ्ह वा आथर्वणस्तेजस्वी ब्रह्मवर्चस्यास ।
तं ह स्म यावन्तोऽसुराः परापश्यन्ति ते ह स्म तदेव विशीर्षाणश्शेरते ।
स उ ह स्वर्गं लोकमुच्चक्राम ।
स हेन्द्रो ऽसुरैरभिबाढ उवाच क्व नु स दध्यङ्ङ्भवादिति ।
तस्मै होचु स्वर्गं वै भगवस्स लोकमुदक्रामदिति ।
स होवाच नैवास्येह किं चित्परिशिष्टमस्तीति ।
तस्मै होचुरासीदेवेदमश्वशीर्षं यनाश्विभ्यां देववेदं प्राब्रवीत्तत्तु न विद्म यत्राभवदिति ।
तद्वा अन्विच्छतेति ।
तद्धान्वीषुः ।
इच्छन्नश्वस्य यच्छिरः परतेष्वपश्रितम् ।
तद्विदच्छर्यणावति
इति ।
शर्यणावद्ध नामैतत्कुरुक्षेत्रस्य जघनार्धे सरस्कम् ।
तदेतदनुविद्याजहुः ।
तदस्मै प्रायच्छन् ।
तद्ध स्मासुराणां प्रकाशे धारयति ।
तं ह स्म यावन्तोऽसुराः परापश्यन्ति ते ह स्म तदेव विशीर्षाणश्शेरते ६४