प्रथमः पुरोहितम्
इति पुर एव वा एनमेतद्दधते ।
यदग्निमादधतेऽग्निं नरस्त्रिषधस्थे समिन्धत इतीमा ह वै प्रजा नरः ।
ता एवैनमेतत्समिन्धत ।
इन्द्रे ण देवैस्सरथं स बर्हिषि सीदन्नि होता यजथाय सुक्रतुर्
इति सर्वदेवत्यं भवति ।
सर्वदेवत्यं ह्येतदहरानुष्टुभम् ।
सर्वदेवत्यो वा अनुष्टुप् ।
अयं वां मित्रावरुणे
ति मैत्रावरुणं भवति ।
पुनःप्रोक्तिर्ह वा एषा हविषः ।
सं ह वा एतद्यज्ञस्तिष्ठते यदेष पूर्वस्त्र्यह आप्यते ।
यन्नु वो परो यज्ञ
इति ह वा एतद्देवेभ्यः प्राहुः ।
तस्मादु हैतद्द्वितीयं यजमान आज्यं कुर्वीत ।
राजानावनभिद्रुहा ध्रुवे सदस्युत्तमे ।
सहस्रस्थूण आसाते
इति सहस्ररूपं विराजामुपगच्छन्ति ।
वैराजं ह्येतदहः ।
ता सम्राजा घृतासुती
इति सम्राड्वतीर्भवन्ति ।
साम्राज्यमिव ह्येतर्ह्यगच्छन् ।
इन्द्रो दधीचो अस्थभिर्
इत्यैन्द्रं भवति ६३