जनस्य गोपा अजनिष्ट जागृविर्
इत्याग्नेयमाज्यं भवति जनद्वत् ।
एष ह वाव जनस्य गोपाः ।
तमेवैतत्प्रातस्सवनात्प्रजनयन्ति ।
तं प्रजातं माध्यन्दिने सवने मन्थन्ति ।
अग्निर्
इति निरेवैनं तदाह ।
सुदक्षस्सुविताय नव्यस
इति प्राणा वै दक्षः ।
प्राणानेवास्मिंस्तद्दधति ।
घृतप्रतीक
इत्येतद्वा अग्नेः प्रियं धाम यद्घृतं प्रियेणैवैनं तद्धाम्ना समर्धयन्ति ।
बृहता दिविस्पृशे
ति बृहतो रूपमुपगच्छन्ति ।
बार्हतं ह्येतदहः ।
द्युमद्वि भाति भरतेभ्यश्शुचिर्
इतीमा ह वै प्रजा भारतीस्ताभ्य एवैतच्छुचिर्विभाति ।
अथो यदेवैनेन भरता अग्र ईजिरेऽथो यदेवैष देवेभ्यो हव्यं वहति तस्माद्भारतः ।
त्वामग्ने आङ्गिरसो गुहा हितम्
इति त्वामिति भवति बृहतो रूपम् ।
बार्हतमेतदहः ।
अन्वविन्दञ्छिश्रियाणं वनेवन
इति वनेवन ह्येतं शिश्रियाणमन्वविन्दन् ।
स जायसे मथ्यमानस्सहो महद्
इति प्रातस्सवनाद्ध वा एतमग्रे मन्थन्ति ।
तं प्रजातं माध्यन्दिने सवने जनयन्ति ।
त्वामाहुस्सहसस्पुत्रमङ्गिर
इति सहसेवं ह्येतं जनयन्ति ।
यज्ञस्य केतुमित्येष ह वाव यज्ञस्य केतुः ।
यत्र ह वै क्व च सूयते तदेष एव पुरस्तात्केतुरुच्छ्रियते ६२