०६१

षडृचं भवति षड्वा ऋतव -ऋतूनामेवाप्त्यै ।

तदाहुर्यत्षडृचं षष्ठस्याह्नो रूपम् । अथ कस्माच्चतुर्थेऽहन्क्रियते इति ।

स ब्रूयात्षड्वा ऋतवस्सं वत्सरस् । संवत्सरः प्रजापतिर्यज्ञः ।

संवत्सरमेवैतेन प्रजापतिं यज्ञमाप्त्वा सवनमुखे पुनरारभन्ते ।

आप्यत इव ह्येतद्यज्ञो यदेष पूर्वस्त्र्यह आप्यत इति ।

उत्तरं षडृचं भवति ।

अभिपूर्वमेवैतेन यज्ञमारभन्ते ।

हिन्वन्ति सूरमुस्रय

इति हिन्वन्तीव वै जातम् ।

जायत उ एतेनाह्ना ।

स्वसारो जामयस्पतिमितीमा ह वाव स्वसारः ।

इमा उ एव जामयः ।

महामिन्दुं महीयुव

इतीमा ह वाव महीयुवः ।

ता एवैनमेतद्धिन्वन्ति ।

पवमान रुचारुचे

ति रुक्मत्सौर्यरूपमुपगच्छन्ति ।

सौर्यं ह्येतदहरेकविंशं प्रतिष्ठा वैराजम् ।

आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः ।

इषे पवस्व संयतमिति पर्यासो भवति प्रजानां धृत्यै पशूनामुपस्थित्यै ।

एकविंश स्तोमो भवति ।

द्वादश मासाः । पञ्चर्तवस् । त्रय इमे लोका । असावादित्य एकविंशः ।

तास्संस्तुता द्वादश जगत्यो भवन्ति ।

ताश्चतुर्विंशतिर्गायत्र्यः ।

ता अष्टादशानुष्टुभः ।

आनुष्टुभमेतदहः ६१