दिवश्चित्रं न तन्यतुं ज्योतिर्वैश्वानरं बृहद्
इति बृहतो रूपमुपगच्छन्ति ।
बार्हतं ह्येतदहः ।
पवमानस्य ते रसः । पवमान रसस्तवे
ति समानमनुतुदति वैराजरूपम् ।
अनुतुन्नं हि वैराजस्य रूपम् ।
प्र यद्गावो न भूर्णय
इति प्रायणीयरूपमेवैतदुपगच्छन्ति ।
प्रायणीयं ह्येतदहः ।
त्वेषा अयासो अक्रमुर्घ्नन्तः कृष्णामप त्वचम्
इति पाप्मा वै कृष्णा त्वक् ।
तामेवैतेनापघ्नते ।
सुवितस्य वनामहे अति सेतुं दुराय्यम्
इति पूर्वो ह वै त्रियहस्सेतुर्दुराय्यस्तमेवैतेनातिर्तरन्ति ।
शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिणः ।
चरन्ति विद्युतो दिवि
इति बृहतो रूपमुपगच्छन्ति ।
बार्हतं ह्येतदहः ।
आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत् ।
अश्ववत्सोम वीरवत्
इति गोमतीः पशुमतीर्भवन्ति पशूनामेवावरुद्ध्यै ।
पवस्व विश्वचर्षण आ मही रोदसी पृणा ।
उषास्सूर्यो न रश्मिभिः
इति सूर्यवतीर्भवन्ति ।
सौर्यं ह्येतदहरेकविंशं प्रतिष्ठा वैराजम् ।
परि नश्शर्मयन्त्या धारया सोम विश्वतः ।
सरा रसेव विष्टपमिति परिवतीर्भवन्त्यन्तस्य रूपम् ।
अन्तो ह्येतदहः ।
आशुरर्ष बृहन्मते परि प्रियेण धाम्ना ।
यत्र देवा इति ब्रुवन्
परिष्कृण्वन्ननिष्कृतम्
अयं स यो दिवस्परि
इति परिपरीति भवत्यन्तस्य रूपम् ।
अन्तो वा अनुष्टुप्छन्दसाम् ।
आनुष्टुभमेतदहः ६०