०५९

ता एता भवन्ति जगत्यो गायत्रवर्णा अह्नो रूपेण समृद्धाः ।

यत्र वा अहारूपेण समृद्धयन्ति सं तत्र ऋध्यते ।

समस्मा ऋध्यते य एवं वेद ।

एतस्य ह वै सन्धेरर्पणं न ददृशे ।

जगदन्तःपूर्वस्त्रियहो भवति ।

जगत्यैतदहः प्रतिपद्यन्ते ।

समादेवैतत्सममुपयन्ति ।

यो वै स्तोम चतुर्युजं वेद वहन्त्येनं चतस्रस्संयुक्ताः ।

जगदन्तःपूर्वस्त्रियहो भवति ।

जगत्यैतदहः प्रतिपद्यन्ते ।

स यथा प्रष्टिं प्रष्टियुगाय नियुज्यादेवमेवैतत्पूर्वस्मिंस्त्रियह उत्तरं त्र्यहमनुनियुनक्ति ।

वहन्त्येनं चतस्रस्संयुक्ता य एवं वेद ।

यो ह खलु वै व्यूढच्छन्दास्स समूढच्छन्दा । यस्समूढच्छन्दास्स व्यूढच्छन्दाः ।

जगदन्तःपूर्वस्त्रियहो भवति ।

जगत्यैतदहः प्रतिपद्यन्ते ।

समादेवैतत्सममुपयन्ति ।

त्रिष्टुबन्तो द्वितीयस्त्र्यहो भवति ।

त्रिष्टुभा तृतीयं त्रियहं प्रतिपद्यन्ते ।

समादेवैतत्समं सङ्क्रामन्ति यत्रान्तस्तृतीयस्त्रियहो भवति ।

गायत्र्या दशममहः प्रतिपद्यन्ते ।

समादेवैतत्समं सङ्क्रामन्तो यन्ति ।

एष ह वाव समूढच्छन्दाः ।

पवमानो अजीजनद्

इति जनद्वाननुरूपो भवति ।

षोडशिनमेवैतत्प्रातस्सवनात्प्रजनयन्ति ।

तं प्रजातं तृतीयसवन आरभन्ते ।

तदाहुरह्न एव रूपं स्तोत्रियेणारभन्तेऽनुरूपेण साम्न इति स्तोत्रियानुरूपौ भवतः ।

प्राणो वै स्तोत्रियोऽपानोऽनुरूपः ।

प्राणापानाभ्यामेवैतत्समृध्य प्रयन्ति ५९