एता भवन्ति
प्र त आश्विनीः पवमान धेनव
इति प्रवतीः प्रायणीयेऽहन् ।
प्रणिनीषेण्यं वा एतदहः ।
प्रेति गायत्र्यै रूपम् ।
गायत्र्या एवैतद्रू पेण प्रयन्ति ।
दिव्या असृग्रन्पयसा धरीमणी
ति विराजामेवैतद्रू पमुपगच्छन्ति ।
वैराजं ह्येतदहः ।
प्रान्तरिक्षात्स्थावरीस्ते असृक्षते
त्यन्तरिक्षवतीर्भवन्ति ।
अन्तरिक्षभाजनं वै तृतीयमहः ।
तृतीयादह्न एतत्प्रजातम् ।
ये त्वा मृजन्त्यृषिषाण वेधस
इति मृजन्तीव वै जातम् ।
जायत उ एतेनाह्ना ।
उभयतः पवमानस्य रश्मय
इत्युभाभ्यां ह वा एतत्त्र्यहाभ्यां प्रजनयन्ति ।
प्रैव पूर्वस्माज्जनयन्ति । तन्वत उत्तरस्मात् ।
ध्रुवस्य सतः पर्यन्ति केतव
इति अहर्वै ध्रुवं छन्दांसि केतवः ।
स यथा श्रान्ताननडुह ऊर्ध्वांस्तान्द्विपरिणायं धुरि युञ्ज्युरेवमेवैतद्द्विपरिणायं छन्दांसि युञ्जन्त्याप्तेष्वहस्सु ।
यदि पवित्रे अधि मृज्यते हरिर्
इति मृजन्तीव वै जातम् ।
जायत उ एतेनाह्ना ।
सत्ता नि योनौ कलशेषु सीदती
ति सोममेवैतत्प्रत्यक्षमनुवदन्ति ।
विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोष्टे सतः पर्यन्ति केतव
इत्यग्निर्ह वा इमाल्ँ लोकाननु प्रभुः ।
तमेवैतत्प्रातस्सवनात्प्रजनयन्ति ।
तं प्रजातं माध्यन्दिने सवने मन्थन्ति ।
व्यानशी पवसे सोम धर्मणा पतिर्विश्वस्य भुवनस्य राजसी
ति स ह्यस्य विश्वस्य भुवनस्य राजति ५८