यदाप्यते यज्ञ । आप्यन्ते छन्दांस्य् । आप्यन्ते देवता । आप्यन्ते इमे लोका अथ केन चतुर्थमहस्तायत इत्याहुः ।
वाचैवेति ब्रूयात् ।
वागेव तत उच्छिष्यतेऽक्षरमेव त्र्यक्षरं परिशिष्यते ।
तदेवोत्तरं त्र्यहमनुविदधाति ।
यदाहाप्यते यज्ञ इति प्रातस्सवनभाजनं प्रथममहर् । माध्यन्दिनभाजनं द्वितीयं । तृतीयसवनभाजनं तृतीयं तेन यज्ञ आप्यते ।
यदाहाप्यन्ते छन्दांसीति गायत्रं प्रातस्सवनं । त्रैष्टुभं माध्यन्दिनं सवनं । जागतं तृतीयसवनं तेन छन्दांस्याप्यन्ते ।
यदाहाप्यन्ते देवता इति वसूनां प्रातस्सवनं । रुद्रा णां माध्यन्दिनं सवनम् । आदित्यानां तृतीयसवनं तेन देवता आप्यन्ते ।
यदाहाप्यन्ते इमे लोका इति -इदं प्रातस्सवनम् । इदं माध्यन्दिनं सवनम् । अदस्तृतीयसवनं तेनेमे लोका आप्यन्ते ।
अक्षरमेव त्र्यक्षरं परिशिष्यते ।
तदेवोत्तरं त्यहमनुविदधाति ।
यो वै चतुर्थेऽहनीन्द्रं वेदेन्द्रि यावान्भवति ।
वाग्वाव चतुर्थेऽहनीन्द्रः ।
इन्द्रि यावान्भवति य एवं वेद ५७