श्रुधी हवं तिरश्च्या
इति तैरश्चम् ।
ऊर्ध्वान्वा अन्ये लोकान्देवाश्चर्षयश्चाजयन् ।
अथ तिरश्चिराङ्गिरसोऽकामयत तिरश्चोऽहं लोकाञ्जयेयं । येनेमा आप स्यन्दन्ते । येनायं वायुः पवते । येनासाबादित्य एति । येन चन्द्र मा येन नक्षत्राणीति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
तेन तिरश्चो लोकानजयद् । येनेमा आप स्यन्दन्ते । येनायं वायुः पवते । येनासावादित्य एति । येन चन्द्र मा येन नक्षत्राणि ।
ऊर्धान्ह वा अन्यैः कर्मभिर्लोकाञ्जयन्ति ।
अथैतेन तिरश्च उभयाल्ँ लोकान्सध्रीचः ।
जयति तिरश्चश् । चोर्ध्वांश्च य एवं वेद ।
तिरश्चिर्हाङ्गिरसश्चकमेऽव वीरांश्च पशूंश्च रुन्धीयेति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति ।
सुवीर्यस्य गोमतो रायस्पूर्धि महं असि
इत्येव वीरांश्च पशूंश्चावरुन्द्धे ।
तदु वीराणां च पशूनां चावरुद्धिः ।
अव वीरांश्च पशूंश्च रुन्द्धे य एवं वेद ।
यदु तिरश्चिराङ्गिरसोऽपश्यत्तस्मात्तैरश्चमित्याख्यायते ।
देवान्वै स्वर्गं लोकं यतो रक्षांस्यन्वसचन्त ।
तेऽकामयन्ताप रक्षांसि हनीमहीति ।
त एतत्सामापश्यन् ।
तद्देवपुरामेव कृत्वा तिर्यक्पर्यौहन् ।
तेन रक्षांस्यपाघ्नत ।
तदु रक्षसामपहतिः ।
अप रक्षः पाप्मानं हते य एवं वेद ।
तदैळमच्छावाकसाम भवति ।
पशवो वा इळा पशुष्वेवैतत्प्रतितिष्ठन्ति ५६