०५५

तास्वरिष्टं यज्ञस्यैवारिष्ट्यै ।

यद्ध वै किं च यज्ञस्य दुष्टुतं दुश्शस्तं विधुरं तस्य ह वा एतदरिष्ट्यै ।

अरिष्टो ह वा एतेन यज्ञः ।

देवा वा एतं द्वादशरात्रमतन्वत ।

तेषां यद्यदरिष्यत्तदरिष्टेनारिष्टमकुर्वत ।

तदरिष्टस्यारिष्टत्वम् ।

अरिष्टेन द्वादशरात्रेण पाप्मानं तरति श्रियमश्नुते य एवं वेद ।

तंस्त्रीळं भवति पशवो वा इळा ।

पशव एतदहरभिपूर्वाणामेव पशूनामवरुद्ध्यै ।

भेषजं ह खलु वै तिस्र इळाः ।

एतद्ध वै शिवं शान्तं वाचो यत्तिस्र इळाः ।

तद्यत्त्रीळं तृतीयेऽहनि भवति तेनैव त्रीण्यहानि शमयन्ति ।

अथ यज्ञायज्ञीयमुक्तब्राह्मणम् ।

प्र मंहिष्ठाय गायते

ति प्रमंहिष्ठीयमुक्तब्राह्मणम् ।

तं ते मदं गृणीमसी

ति मद्वतीर्भवन्ति ।

अभिपूर्वमेवैतत्तृतीयसवने रसं मदं दधति ।

तासु हारिवर्णमुक्तब्राह्मणम् ।

तच्चतुरक्षरणिधनं भवति चतुष्पदा वै पशवः ।

पशव उष्णिगभिपूर्वाणामेव पशूनामवरुद्ध्यै ५५