तासु गौरिवीतमुक्तब्राह्मणम् ।
अथ त्वाष्ट्रीसाम वीरजननं साम ।
अस्य वीरो जायते य एवं वेद अथो चतुर्थस्यैवाह्नः प्रजात्यै ।
प्रजननं ह्येतद्यत्त्वाष्ट्रीसाम ।
तन्मध्येनिधनं भवति प्रतिष्ठायै ।
समुद्रं वा एतेनारम्भणं प्रप्लवन्ते य आर्म । वं पवमानमुपयन्ति ।
यद्यन्मध्येनिधनं भवति प्रतिष्ठित्या एव ।
तदु निषिद्धमिव भवत्यन्तस्य रूपम् ।
अन्तो वै स्वर्गो लोकानाम् ।
स्वर्गायैतल्लोकायाह्रियते यत्तृतीयमहः ।
तद्यदेतन्निषिद्धमिव भवति स्वर्गस्यैव लोकस्यानतिपादाय ।
पवित्रं ते विततं ब्रह्मणस्पत
इति पवित्रवतीर्भवन्ति ।
पवित्रमिव वा इदं विततं यदन्तरिक्षम् ।
अन्तरिक्षभाजनमेतदहः ।
प्रभुर्गात्राणि पर्येषि विश्वत
इति विश्ववतीर्भवन्ति ।
वैश्वदेवं ह्येतदहः ।
अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तस्सं तदाशते
ति समष्ट्यै ।
तपोष् । पवित्रं विततं दिवस्पदे शोचन्तो अस्य तन्तवो व्यस्थिरन् ।
अवन्त्यस्य पवितारमाशवो दिवः पृष्ठमधि तिष्ठन्ति तेजसा
इति स्वर्गस्यैव लोकस्य समष्ट्यै ।
अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमाति भुवनेषु वाजयुः ।
मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः
इति पुनरेवैतत्तृतीयेऽहनि गर्भमादधति चतुर्थस्यैवाह्नः प्रजात्यै ५४