तासु शौक्तम् ।
अङ्गिरसो वै तपस्तेपाना अशोचन् ।
तेऽकामयन्ताप शुचं हनीमहीति ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
तेन शुचमपाघ्नत ।
तद्यच्छुचमपाघ्नत तच्छौक्तस्य शौक्तत्वम् ।
अप शुभं हते य एवं वेद ।
शुक्तिराङ्गिरस स्वर्गकामस्तपोऽतप्यत ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै स स्वर्गं लोकमाश्नुत ।
तदेतत्स्वर्ग्यं साम ।
अश्नुते स्वगं लोकं य एवं वेद ।
यदु शुक्तिराङ्गिरसोऽपश्यत्तस्माच्छौक्तमित्याख्यायते ।
सुतासो मधुमत्तमास्सोमा इन्द्रा य मन्दिन
इति मद्वतीर्भवन्ति ।
रसो वै मदः ।
धीतमिवैतद्यत्तृतीयसवनम् ।
तद्यदेता मद्वतीर्भवन्ति रसमेवास्मिन्नेतद्दधत्यैवैनदेतेन प्याययन्ति ।
पवित्रवन्तो अक्षरन्देवान्गच्छन्तु वो मदा
इत्यभिपूर्वमेवास्मिंस्तद्र सं मदं दधति ।
इन्दुरिन्द्रा य पवत इति देवासो अब्रुवन् ।
वाचस्पतिर्मखस्यते विश्वस्येशान ओजसा
इति विश्ववतीर्भवन्ति ।
वैश्वदेवं ह्येतदहः ।
सहस्रधारः पवते समुद्रो वाचमीङ्खय
इति यद्वै शतवत्सहस्रवत्तज्जगत्यै रूपम् ।
जागतमेतदहः ५३