०५२

तासु वाचस्साम ।

निष्कर्या देवास्सत्रमासते ।

ते स्वर्गं लोकं न प्रजानन्नेतत्तृतीयमहः ।

तेऽकामयन्त प्र स्वर्गं लोकं जानीयामेदं तृतीयमहरिति ।

तान्वाक्साम गायमानोपाप्लवत ।

तदपश्यन् ।

तेनास्तुवत ।

तेनार्ध्नुवन् ।

तेन स्वर्गं लोकं प्रजानन्नेतत्तृतीयमहः ।

तदेतदृद्धि स्वर्ग्यं साम ।

ऋध्नोति । गच्छति स्वर्गं लोकं य एवं वेद ।

यद्ध वै शिवं शान्तं वाचस्तत्साम ।

सामन्वदतीति वा आहुः ।

साधु वदन्तं तद्यदेतत्साम भवति शिवेनैवैतद्वाचश्शान्तेन त्र्यहं शमयन्ति ।

यदु वाक्साम गायमानोपाप्लवत तस्माद्वाचस्सामेत्याख्यायते ।

सखाय आ नि षीदत पुनानाय प्र गायते

ति प्रवतीः परिवतीर्भवन्ति ।

तद्यत्प्रवतीर्भवन्ति चतुर्थस्यैवाह्नः प्रजात्यै ।

अथ यत्परिवतीरन्तस्य रूपमन्तो ह्येतदहर्योऽन्तस्सोऽन्तोऽसदिति ।

परि परीति वा अन्तं पर्यन्ति ५२