तिस्रो वाच उदीरत
इत्यार्भवस्य पवमानस्य गायत्र्यो भवन्ति तृतीयस्याह्नो रूपम् ।
तेनैव त्रीण्यहानि कल्पन्ते ।
गावो मिमन्ति धेनवः ।
हरिरेति कनिक्रदत्
इति गोमतीः पशुमतीर्भवन्ति पशूनामेवावरुद्ध्यै ।
पशवो ह्येतदहः ।
अभि ब्रह्मीरनूषते
त्यभीति भवति रथन्तरस्य रूपम् ।
राथन्तरमेतदहः ।
राये समुद्रा श्चं!तुर
इति चतुर्थस्यैवाह्नः प्रजात्यै ।
अस्मभ्यं सोम विश्वत
इति विश्ववतीर्भवन्ति ।
वैश्वदेवं ह्येतदहः ।
आ पवस्व सहस्रिण
इति यद्वै शतवत्सहस्रवत्तज्जगत्यै रूपम् ।
जागतमेतदहः ।
तासु गायत्रमुक्तब्राह्मणम् ।
अथ पाष्ठौहम् ।
पाष्ठौहीराङ्गिरस स्वर्गकामस्तपोऽतप्यत ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै स स्वर्गं लोकमाश्नुत ।
तदेतत्स्वर्ग्यं साम ।
अश्नुते स्वर्गं लोकं य एवं वेद ।
यदु पाष्ठौहीराङ्गिरसोऽपश्यत्तस्मात्पाष्ठौहमित्याख्यायते ।
हूतिश् । च ह खलु वा एते सामनी प्रतिश्रुतिश्च हो ये हो वा हा हो इत्येवैतेनाङ्गिरसोऽह्वयन् ।
हा ओ वा ओ वा इत्यनेन प्रत्यशृण्वन् ।
ते ह वा एते सामनी हूतिश्चैव प्रतिश्रुतिश्च । स्वर्ग्ये । स्वर्गस्य लोकस्य समष्ट्यै ।
आ सोता परि षिञ्चते
ति परिवतीर्भवन्त्यन्तस्य रूपम् ।
अन्तो ह्येतदहः ५१