तासु वैष्टम्भम् ।
वैष्टम्भेन वै देवा असुरानेभ्यो लोकेभ्यो निष्टभ्य स्व आयतने सत्रमासत ।
वैष्टम्भेनैव द्विषन्तं भ्रातृव्यमेभ्यो लोकेभ्यो निष्टभ्य स्व आयतने सत्रमास्ते य एवं वेद ।
नैष्टम्भं ह वै नामैतत् ।
तद्वैष्टम्भमित्याख्यायते ।
उदरं वा एतदहः ।
अन्नमेतद्यद्वैष्टम्भम् ।
तद्यदत्र वैष्टम्भं क्रियते मध्यत एवैतदात्मनोऽन्नाद्यं दधते ।
तस्मादु हेदं पुरुषोऽन्नेन विष्टब्ध इव ।
तरणिरित्सिषासती
ति प्रज्ञाता स्तोत्रिया भवन्ति ।
तासु रौरवं त्रिरूपं त्रिपरिष्टोभं तृतीयस्याह्नो रूपम् ।
अग्निर्वै रुरू । रुद्रो ऽग्निः ।
यस्मात्पशवोऽपक्रामन्त्यग्निरेव तस्मात्पशूनपक्रमयति ।
अथ यं पशव उपनमन्त्यग्निरेव तस्मै पशूनुपनमयति ।
आग्नेयास्सत्रिण स्वैवैभ्यो देवता पशूनवरुन्द्धे ।
तदैळमच्छावाकसाम भवति ।
पशवो वा इळा ।
पशुष्वेवैतत्प्रतितिष्ठन्ति ५०