तद्यदश्ववद्भवति भ्रातृव्यस्यैवापनुत्त्यै ।
अध्यर्धेळा तृतीयस्याह्नोऽध्यर्धेळा पञ्चमस्य ।
स यथा मण्डूक इट्कुर्यादेवमत्रेट्कुर्यात् ।
तेनैव पञ्चममहरयातयाम क्रियते ।
सर्वा वै वाक्तृतीयेऽहन्नाप्यते ।
तद्यदेते वृकणावा भवन्त्युभय्या एव वाचुपाप्त्यै । या च ग्राम्या या चारण्या ४९