०४८

यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः ।

न त्वा वज्रिन्सहस्रं सूर्या अनु

इति यद्वै शतवत्सहस्रवत्तज्जगत्यै रूपम् ।

जागतमेतदहः ।

न जातमष्ट रोदसी

इतीमे ह वाव रोदसी ।

एते एवैतदभिवदति ।

आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसे

ति विश्ववतीर्भवन्ति ।

वैश्वदेवं ह्येतदहः ।

अस्मं अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिर्

इति गोमतीः पशुमतीर्भवन्ति पशूनामेवावरुद्ध्यै ।

पशवो ह्येतदहः ।

तासु वैरूपम् ।

संवत्सरो वै विरूपो । विरूपा ऋतवो । विरूपा अर्धमासाः ।

तद्यत्पञ्चनिधनं पञ्च ह्यृतवो । यद्द्वादशनिधनं द्वादश हि मासा । यद्दिग्वदाक्रमणावत्तेन । यद्विश्ववद्वैश्वदेवं ह्येतदहः ।

प्रजननं वा एतद्वैरूपम् ।

तद्यत्तृतीयेऽहन्क्रियते चतुर्थस्याह्नः प्रजात्यै ।

यद्देवा अभवंस्तदसुरा अभवन् ।

ते देवा अश्वा अभवंस् । तदसुरा नान्ववायन् ।

ततो वै देवा अभवन् । परासुराः ।

भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद ४८