०४७

तासु सङ्क्रोशः ।

सङ्क्रोशेन वै देवास्सङ्क्रोशमाना स्वर्गं लोकमायन् ।

यत्सङ्क्रोशमाना स्वर्गं लोकमायंस्तत्सङ्क्रोशस्य सङ्क्रोशत्वम् ।

तदेतत्स्वर्ग्यं साम ।

सङ्क्रोशमान एवैतेन स्वर्गं लोकमेति य एवं वेद ।

तद्वेवाचक्षतेऽङ्गिरसां सङ्क्रोश इति ।

अङ्गिरसो वा अकामयन्त संविदाना एव सङ्क्रोशमाना स्वर्गं लोकमियामेति ।

त एतत्सामापश्यन् ।

तेनास्तुवत ।

ततो वै ते संविदाना एव सङ्क्रोशमाना स्वर्गं लोकमायन् ।

यत्सङ्क्रोशमाना स्वर्गं लोकमायंस्तद्वेव सङ्क्रोशस्य सङ्कोशत्वम् ।

तदेतत्स्वर्ग्यं साम ।

संविदान एवैतेन सङ्क्रोशमान स्वर्गं लोकमेति य एवं वेद ।

तच्छ्रीर्वै स्वर्गो लोकः ।

अश्नुते श्रियं । गच्छति स्वर्गं लोकं । य एवं वेद ।

यद्वङ्गिरसोऽपश्यंस्तस्मादङ्गिरसां सङ्क्रोश इत्याख्यायते ।

हूतिश्च ह खलु वा एते सामनी प्रतिश्रुतिश्च हे ये हो वा हा हो इत्येवानेनाङ्गिरसोऽह्वयन् ।

हा वा ओ वा इत्येतेन प्रत्यशृण्वन् ।

ते ह वा एते सामनी हूतिश्चैव प्रतिश्रुतिश्च । स्वर्ग्ये । स्वर्गस्य लोकस्य समष्ट्यै ४७