०४६

अथ काण्वम् ।

कण्वो वै नार्षदो ज्योगप्रतिष्ठितश्चरन्सोऽकामयत प्रतितिष्ठेयमिति ।

स एतत्सामापश्यत् ।

तस्य निधनं नापश्यत् ।

स वृषदंशस्य क्ष्वत उपाशृणोत् ।

तदपश्यत् ।

तेनास्तुत ।

ततो वै स प्रत्यतिष्ठत् ।

तदेतत्प्रतिष्ठासाम ।

प्रतितिष्ठति य एवं वेद ।

यदु कण्वो नार्षदोऽपश्यत्तस्मात्काण्वमित्याख्यायते ।

तिस्रो वाच ईरयति प्र वह्निर्

इति त्रिष्टुभोऽन्त्या भवन्ति तृतीयस्याह्नो रूपम् ।

तेनैव त्रीण्यहानि कल्पन्ते ।

ऋतस्य धीतिं ब्रह्मणो मनीषाम् ।

गावो यन्ति गोपतिं पृच्छमानास्सोमं यन्ति मतयो वावशानाः

इति गोमतीः पशुमतीर्भवन्ति । पशूनामेवावरुद्ध्यै ।

पशवो ह्येतदहः ४६