अथान्तरिक्षम् ।
देवान्वा अन्तरिक्षं परेतानसुरा अविध्यन् ।
तेऽकामयन्तान्तरिक्षादेवान्तरिक्षेण विजित्य स्वर्गं लोकमारोहेमेति ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
ततो वै तेऽन्तरिक्षादेवान्तरिक्षेण विजित्य स्वर्गं लोकमारोहन् ।
तदेवान्तरिक्षस्यान्तरिक्षत्वम् ।
तदेतद्विजिति स्वर्ग्यं साम ।
विजयते गच्छति स्वर्गं य एवं वेद ।
अन्तरिक्षं वा एतदहः ।
लेलेव वा अन्तरिक्षम् ।
तद्यन्मध्येनिधनं भवति प्रतिष्ठित्या एव ।
तस्योभयतः पदं परिष्टोभत्यन्तरिक्षस्य रूपम् ।
उभयत इव हीदमन्तरिक्षं परिष्टुब्धमाभ्यां लोकाभ्याम् ।
तस्मादु हैतत्सामैतस्मादह्नो नान्तरित्यम् ।
अन्तरिक्षं वा एतदहर् । अन्तरिक्षमेतत्साम ।
अहरेवैतेन रोहति तुष्टुवानः ।
यदु देवा एतेन साम्नान्तरिक्षादेवान्तरिक्षेण विजित्य स्वर्गं लोकमारोहंस्तस्मादन्तरिक्षमित्याख्यायते ४५