अथ गौतमम् ।
उभौ वर्णौ समृद्ध्यै बार्हतं प्रस्तावेन राथन्तरमूर्धम् ।
गोतमो वै राहूगणोऽकामयत सातसनि स्यामिति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै स सातसनिरभवत् ।
सातसनयोऽसामेति सत्रमासते ।
सातसनय एव भवन्ति ।
तद्ये च ह वै गोतमादृषयः पराञ्चो ये चार्वाञ्चस्ते गोतममेवर्षिमुभय उपासते ।
एतं हि स महिमानमपश्यत् ।
ये च हास्मात्पराञ्चः पितरो भवन्ति । ये चार्वाञ्चस्त एनमुभय उपासते य एवं वेद ।
यदु गोतमो राहूगणोऽपश्यत्तस्माद्गौतममित्याख्यायते ४४