तासु पौरुमुद्गम् ।
इळावान्पवमानः पौरुमुद्गेन क्रियते ।
पुरुमुद्ग आङ्गिरसः पशुकामस्तपोऽतप्यत ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
स एतामिळामुपैत् ।
पशवो वा इळा ।
ततो वै स पशूनवारुन्ध ।
तदेतत्पशव्यं साम ।
अब पशून्रुन्धे बहुपशुर्भवति य एवं वेद ।
यदु पुरुमुद्ग आङ्गिरसोऽपश्यत्तस्मात्पौरुमुद्गमित्याख्यायते ।
देवाश्च वा असुराश्चाधि समुद्र मस्पर्धन्त ।
ते देवा अकामयन्त पूर्व एवासुरान्समुद्रे मज्जयेमेति ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
तेनासुरान्पूर्वेऽमज्जयन् ।
तद्यत्पूर्वेऽमज्जयंस्तद्वेव पौरुमुद्गस्य पौरुमुद्गत्वम् ।
पूर्व एव द्विषन्तं भ्रातृव्यं मज्जयति य एवं वेद ।
तेषामु यो य एवोदमज्जत्तस्यैतेनैव साम्ना प्राघ्नन् ।
तदु भ्रातृव्यहा ।
कस्मादेतत्सामाहू रक्षोहेति ।
रक्षांसीव वा एतत्तानघ्नन् ।
हन्ति द्विषन्तं भ्रातृव्यम् । अव रक्षः पाप्मानं हते य एवं वेद ४३