तस्मिन्नु ह देवा विराजमन्नाद्यं ददृशुर्मिथुनं प्रजननम् ।
तद्यच्चतुष्पदा प्रथमा भवति त्रिपदे उत्तरे द्वे । तानि दश पदानि सम्पद्यन्ते ।
दशाक्षरा विराड् । अन्नं विराट् ।
एतां ह तद्ददृशुः ।
अथ यद्बृहतीति पूर्वामाचक्षते प्रगाथ इत्युत्तरे तदु मिथुनं प्रजननम् ।
तस्मिन्नु हैव वसिष्ठो विराजमन्नाद्यं ददर्शाचतुरं मिथुनं प्रजननम् ।
तद्यच्चतुष्पदा प्रथमा भवति द्विपद उत्तरास्तिस्रस्तानि दश पदानि सम्पद्यन्ते ।
दशाक्षरा विराड् । अन्नं विराट् ।
एतां ह तद्ददर्श ।
एकेति तदेका । द्वे इति तत्तिस्रस् । तिस्र इति तत्षट् । चतस्र इति तद्दश ।
सो एव विराट् ।
एक इत्येकेति । द्वाविति द्वे इति । त्रय इति तिस्र इति । चत्वार इति चतस्र इत्य् । एतद्वा आचतुरं मिथुनं प्रजननम् ।
प्र मिथुनेन जायते य एवं वेद ४२