यद्यद्वै देवा यज्ञेऽकुर्वत । तत्तद्वेवासुरा अन्वकुर्वत ।
ते देवा अब्रुवन्यद्यद्वाव वयं यज्ञे कुर्महे । तत्तन्नोऽसुरा अनुकुर्वते ।
एतेमं त्रयं वेदं गाथया संसृजामेति ।
ते त्रयं वेदं गाथया संयुक्तं न्यास्यन् ।
तमसुरा अब्रुवन्न वा अयमभूद्यं गाथया समस्राक्षुः ।
एतेमं जहामेति ।
तमजहुः ।
तस्माद्धीनाद्देवा एतं गाथायै रसं प्रावृहन्त ।
स एष प्रगाथोऽभवत् ।
तद्यद्गाथायै रसं प्रावृहन्त । तत्प्रगाथस्य प्रगाथत्वम् ।
स हैष रस एव प्रवृढः ।
रसेन हास्य स्तुतं भवति य एवं विद्वान्प्रगाथेन स्तुते ।
अथ ह वा अग्र ऋक्च गाथा च सदृश्यावेवासतुर् । तान्यान्यामति ।
ते आजिमैताम् ।
सैतं ऋग्गाथायै रसं प्रावृहत ।
स एष प्रगाथोऽभवत् ।
तद्यद्गाथायै रसं प्रावृहत । तद्वेव प्रगाथस्य प्रगाथत्वम् ।
स हैष रस एव प्रवृढः ।
रसेन हास्य स्तुतं भवति य एवं विद्वान्प्रगाथेन स्तुते ४१