०४०

उच्चा ते जातमन्धसे

ति माध्यन्दिनस्य पवमानस्यान्धस्वतीर्गायत्र्यो भवन्त्यन्नं वा अन्धोऽन्नाद्यस्यैवावरुद्ध्यै ।

दिवि सद्भूम्या दद

इति द्यावापृथिवीया भवन्ति ।

अप्रतिष्ठितमिव वा एतदहर्यद्वैरूपम् ।

तद्यदेता द्यावापृथिवीया भवन्त्यहरेवैताभिः प्रतिष्ठापयन्ति ।

स न इन्द्रा य यज्यवे वरुणाय मरुद्भ्य

इति मरुत्वतीर्भवन्ति ।

मरुत्वद्वै मध्यन्दिनस्य रूपम् ।

मध्यन्दिनस्यैव तद्रू पान्न यन्ति ।

एना विश्वान्यर्य आ

इति विश्ववतीर्भवन्ति ।

वैश्वदेवं ह्येतदहः ।

तासु गायत्रमुक्तब्राह्मणम् ।

अथ वैष्टम्भम् ।

ऊर्ध्वा वै देवा स्वर्गं लोकमुदक्रामन् ।

ते दिशो नापश्यन् ।

तेऽकामयन्त दिशः पश्येमेति ।

त एते सामनी अपश्यन् ।

ताभ्यामस्तुवत ।

ततो दिशोऽपश्यन् ।

तास्वाक्रमन्त ।

तास्समिवाप्लीयन्त ।

ता एताभ्यां निधनाभ्यां यथा चर्म कुशीभ्यामन्वस्येदेवमेवाभ्यामन्वास्यन् ।

ता अध्रियन्त ।

तद्यदेते सामनी भवतो दिशामेव धृत्यै स्वर्गस्य च लोकस्योज्जित्यै ।

दिशो वा एतदहर् । दिश एते सामनी ।

तद्यदेते सामनी एतस्मिन्नहनि क्रियेते । दिश एवैतत्प्रत्यक्षमारभन्ते ।

अभि सोमास आयव

इत्यभीति भवति रथन्तरस्य रूपम् ।

राथन्तरमेतदहः ४०