तो हुवे ययोरिदम्
इत्यैन्द्रा ग्नं भवति ।
वाचमेवैतद्यज्ञमूहिषीमन्त त उपह्वयन्ते
पप्रे विश्वं पुरा कृतम्
इति ।
पुरेव ह्येतदेतर्हि कृतं भवति ।
इन्द्रा ग्नी न मर्धतः
उग्रा विघनिना मृध
इति ।
वीति भवत्यन्तरिक्षस्य रूपम् ।
अन्तरिक्षभाजनमेतदहः ।
हथो वृत्राण्यार्या हथो दासानि सत्पती ।
हथो विश्वा अप द्विषः
इति वार्त्रघ्नं भवत्यन्ततो विजित्यै ।
एतेन वै त्र्यहेण देवा अग्रे व्यजयन्त ।
तद्यदेतद्बार्त्रघ्नमन्तत आज्यं क्रियते । विजित्या एव भ्रातृव्यस्यैव वधाय ।
विजयते । हन्ति द्विषन्तं भ्रातृव्यं । य एवं वेद ।
सप्तदश स्तोमो भवति ।
प्रजापतिर्वै सप्तदशः ।
प्रजापतावेवैतत्प्रतितिष्ठन्तो यन्ति ३९