०३८

मित्रं हुवे पूतदक्षम्

इति मैत्रावरुणं भवति ।

हु इति वै रथन्तरस्य रूपम् ।

राथन्तरमेतदहः ।

वरुणं च रिशादसं धियं घृताचीं साधन्ते

ति सिद्ध्या एव ।

ऋतेन मित्रावरुणावृतावृधावृतस्पृशा ।

ऋतुं बृहन्तमाशाथे

कवी नो मित्रावरुणा

इति वीति भवत्यन्तरिक्षस्य रूपम् ।

अन्तरिक्षभाजनमेतदहः ।

इन्द्रे ण सं हि दृक्षस

इत्यैन्द्रं भवति ।

समिति च वै वीति वान्तरिक्षस्य रूपम् ।

इतो वा अयं ऊर्ध्वो लोकोऽर्वाङसावमुतः ।

समिति च वा इदमन्तरिक्षं वीति च ।

सञ्जग्मानो अबिभ्युषा मन्दू समानवर्चसे

ति ।

समानं वै तृतीयं च चतुर्थं चाहनी ।

तृतीयाद्वा अह्नश्चतुर्थमहः प्रजातम् ।

आदह स्वधामनु पुनर्गर्भत्वमेरिर

इति पुनरेवैतत्तृतीयेऽहनि गर्भत्वमेरयन्ते चतुर्थस्याह्नः प्रजात्यै ।

दधाना नाम यज्ञियं

वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः ।

अविन्द उस्रिया अनु

इति गोमतीः पशुमतीर्भवन्ति पशूनामेवावरुद्ध्यै ।

पशवो ह्येतदहः ३८