०३७

अग्निनाग्निस्समिध्यत

इत्याग्नेयमाज्यं भवति राथन्तरम् ।

राथन्तरं ह्येतदहः ।

यद्ध वा अग्निनाग्निस्समिद्ध्यते वैरूपं ह वै तद्र थन्तरेण समिध्यते । रथन्तरं वा वैरूपेण ।

तदु होवाच सौजातस्याराटेर्जाया यन्नु मे द्वे एव पृष्ठे पतिरमन्यताथ क्रोऽयं गर्दभ औदुम्बरिमभिनानद्यत इति ।

तदाहू राथन्तरमेतदहः ।

तस्मादेतस्याह्नो रथन्तरं पृष्ठं कार्यमिति ।

तदु वा आहुः को वा न्वै स्यात्पुरुषः को वा यदस्यात्मेव स्यान्न पशवः ।

आत्मा वै बृहद्र थन्तरे ।

पशवः पृष्ठानि ।

तस्मादेतस्याह्नो वैरूपमेव पृष्थं कार्यमिति ।

तद्यदेतस्याह्नो वैरूपं पृष्ठं भवत्यात्मन्नेवैतद्पशून्प्रतिष्ठापयन्ति ३७