०३६

ता गोमतीरिळावतीरश्ववतीः पशुमतीर्भवन्ति पशूनामेवावरुद्ध्यै ।

पशवो ह्येतदहः ।

विश्ववतीर्भवन्ति ।

वैश्वदेवं ह्येतदहः ।

अन्तरिक्षवतीर्भवन्ति ।

अन्तरिक्षं ह्येतदहः ।

आशीर्वतीर्भवन्ति ।

आशीर्वद्ध्येतदहः ।

अथो आशिरं वै तृतीयसवनेऽवनयन्ति ।

तृतीयसवनभाजनमेतदहः ।

पञ्चर्चं भवति पञ्च वै दिशो दिशामेव धृत्यै ।

अथो पाङ्क्तो वै यज्ञो यज्ञस्यैवारम्भाय ।

पर्यासो भवति प्रजानां धृत्यै पशूनामुपस्थित्यै ।

सप्तदशस्तोमो भवति ।

प्रजापतिर्वै सप्तदशः ।

प्रजापतावेवैतत्प्रतितिष्ठन्तो यन्ति ३६