दविद्युतत्या रुचे
ति प्रतिपदो भवन्ति ।
दविद्युतत्या रुचे
ति वै गायत्र्यै रूपम् ।
परिष्टोभन्त्या
कृपेति त्रिष्टुभः ।
सोमाश्शुक्रा गवाशिर
इति जगत्यै ।
छन्दसां वा एषां रूपं छन्दोभिस्तृतीयसवनं क्रियते ।
तृतीयसवनमिव वै तृतीयमहः ।
ता एता भवन्ति गायत्र्यो जगद्वर्णा अह्नोरूपेण समृद्धाः ।
यत्र वा अहारूपेण समृद्धयन्ति सं तत्रर्ध्यते ।
समस्मा ऋध्यते य एवं वेद ।
एते असृग्रमिन्दव
इत्यनुरूपो भवति ।
भूतानुवादिनीरेत एत इति वै पूर्वाण्यतोऽनुदिशन्ति ।
बृहद्र थन्तरयोरेवैतद्यातेन यान्ति त्रिवृत्पञ्चदशयो स्तोमयोः ।
तदाहुस्साम्न एव रूपं स्तोत्रियेणारभन्तेऽनुरूपेणाह्न इति ।
स्तोत्रियानुरूपौ भवतः ।
प्राणो वै स्तोत्रियोऽपानोऽनुरूपः ।
प्राणापानाभ्यामेवैतत्समृध्य प्रयन्ति ३५