तासु साकमश्वं स्वर्ग्यं साम स्वर्गस्य लोकस्य समष्ट्यै ।
एवा ह्यसि वीरयुर्
इत्येवेति भवति बृहतो रूपम् ।
बार्हतमेतदहः ।
तास्वामहीयवं प्राजापत्यं साम ।
क्षत्रं वै प्रजापतिः ।
प्राजापत्यमेतदहः ।
तद्गायत्रीषु भवति ।
ब्रह्म वै गायत्री ।
क्षत्रमेतदहः ।
तद्यद्गायत्रीष्वामहीयवं भवति । ब्रह्मैव तद्यशसार्पयन्ति ।
ब्रह्मणोऽस्य सतः क्षत्रस्येव प्रकाशो भवति य एवं वेद ।
एतस्माद्ध वा इदं ब्राह्मणानां राज्ञामिव प्रकाशो यद्गायत्रीषूक्थं ब्रह्मसाम भवति ।
तत्समानं वदन्तीषु भवति ।
यद्ध वै बहवस्समानमाचक्षते तत्सत्यम् ।
तद्यद्
एवा ह्यसि वीरयुरेवाशूर उत स्थिरः ।
एवा ते राध्यं मनः
इति भवति सत्यस्यैवर्द्ध्यै ।
इन्द्रं विश्वा अवीवृधन्न्
इति वृद्धं ह्येतदहर्यद्बार्हतम् ।
तास्वाष्टादंष्ट्रमुक्तब्राह्मणम् ।
तदैळमच्छावाकसाम भवति ।
पशवो वा इळ ।
पशुष्वेवैतत्प्रतितिष्ठन्ति ।
अभीळायै स्वरेण तृतीयमह स्वरति ३४