तासु यामम् ।
यममिव वा एतदहर्यद्द्वितीयम् ।
यथा वै यमौ जायेयातामेवमेतदहः ।
यमैर्वै यमोत्गमोरवं लोकान्निरुंह्य लोकमस्याभ्यारोहत् ।
लोकादेव द्विषन्तं भ्रातृव्यं रुंह्य लोकमस्याभ्यारोहति य एवं वेद ।
मन्त्रेणर्षयो निदानवन्तो यामेन यमः ।
निदानवन्तोऽसामेति सत्रमासते ।
निदानवन्त एव भवन्ति ।
तद्गृहा वै निदानं । प्रजा निदानं । पशवो निदानं । स्वर्गो लोको निदानम् ।
निदानवान्भवति य एवं वेद ।
यमं वैवस्वतं देवा अमुष्मै लोकायासुवत ।
सोऽकामयत निदानवानस्मिल्ँ लोके स्यामिति ।
स एतानि यामानि सामान्यपश्यत् ।
तैरस्तुत ।
तैरस्मिल्ँ लोके निदानवानभवत् ।
एतन्निदानो ह वाव सोऽस्मिल्ँ लोके एतत्प्रजा एतैरेव सामभिर्य एवैतानि सामानि वेद ।
तेनास्मिल्ँ लोके निदानवान्यमस्य पुत्रतां गच्छति य एवं वेद ।
तदाहुः पितृदेवत्यानि सामानि ।
ईश्वरः पुरायुषोऽमुं लोकमेतोरित्यायुरिति वा स्तोभत्यथो वायुरिति ।
तथा ह पुरायुषोऽमुं लोकं नैति ।
यदु यमोऽपश्यत्तस्माद्याममित्याख्यायते ।
अथ यज्ञायज्ञीयमुक्तब्राह्मणम् ।
एह्यू षु ब्रवाणि ते अग्न इत्थतरा गिरः ।
एभिर्वर्धास इन्दुभिः
इति वृद्धं ह्येतदहर्यद्बार्हतम् ३३