अथ क्रौञ्चम् ।
क्रुङ्ङाङ्गिरस ईष्यमिवाहरविन्दत् ।
ईष्यमिवैतदहर्यद्द्वितीयम् ।
तस्माद्द्वितीयेऽहन्क्रियते ।
एकं वावाहरासीत् ।
स क्रुङ्ङाङ्गिरसोऽकामयताह्न एवाहर्निर्मिमीयेति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै सोऽह्ने एवाहर्निरमिमत ।
तद्यदेतत्साम भवत्य् । अह्न एवैतेनाहर्निर्मिमत ।
एतद्ध स्म वै तत्क्रुङ्गाङ्गिरसोऽह्ने एवाहर्विपिपीते ।
यद्ध वा इदमाहुः क्रुङ्क्षीरं विपिपीत इति । न ह वै तत्क्रुङ्विपिपीते ।
क्रुङ्ह स्म वै तदाङ्गिरसोऽह्न एवाहर्विपिपीते ।
क्रुङ्ङाङ्गिरस स्वर्गकामस्तपोऽतप्यत ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै स स्वर्गं लोकमाश्नुत ।
तदेतत्स्वर्ग्यं साम ।
अश्नुते स्वर्गं लोकं य एवं वेद ।
तदूर्ध्वेळं भवति बृहतो रूपं बार्हतेऽहन् ।
तेन वै रूपसमृद्धम् ।
यदु क्रुङ्ङाङ्गिरसोऽपश्यत्तस्मात्क्रौञ्चमित्याख्यायते ।
वृषा मतीनां पवते विचक्षण इति वृषण्वतीर्भवन्ति ।
बार्हतं वा एतदहस्त्रौष्टुभं क्षत्रस्य रूपम् ३२