०३१

तासु सुज्ञानं ।

देवान्वा असुरा व्यवंह्वारमजिघांसन्यद्रू पं देवानामासीत्तेन रूपेणानुप्रविश्य तेषां ह देवानां येऽरण्ये स्वाध्यायं चेरुर् ।

ये ग्राम आसुस् । तेषां तान्रूपेण जिघांसाञ्चक्रुः ।

अथ ये ग्राम आसुर् । येऽरण्ये स्वाध्यायं चेरुर् । तेषामु तान्रूपेण जिघांसाञ्चक्रुः ।

तान्हैव व्यवंह्वारं जिघांसां चक्रुः ।

तद्देवाः प्रत्यबुध्यन्ते ।

तेऽब्रुवन्संवाचनं करवामहा इति ।

ते संवाचनमकुर्वत यं पृच्छाम चरन्तं कमच्छ चरसीति । इन्द्र मच्छ चरामीत्येव स ब्रूतादिति ।

ते ह स्म यं पृच्छन्ति चरन्तं कमच्छ चरसीति । इन्द्र मच्छ चरामीति ह स्मैवाह ।

सुज्ञानोऽसीति ह स्माहुः ।

तदेव सुज्ञानस्य सुज्ञानत्वम् ।

तत्सञ्ज्ञानं वा एतत्साम ।

सञ्ज्ञानमेवास्मै तेन भवति । येन कामयतेऽनेन सञ्जानीयेति । य एवं वेद ।

तेषामु यो य एव पृष्टो न प्रत्यमनुत । तस्यैतदेव प्राघ्नन् ।

तदु भ्रातृव्यहा ।

हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद ।

देवा वै स्वर्गं लोकं यन्तो ज्ञानादबिभयुः ।

तेऽकामयन्त ज्ञानमाविर्भावं गच्छेमेति ।

त एतत्सामापश्यन् ।

तेनास्तुवत ।

ततो वै ते ज्ञानमाविर्भावमगच्छन् ।

ज्ञानमाविर्भावं गच्छति य एवं वेद ।

अयं पूषा रयिर्भगस्सोमः पुनानो अर्षति ।

पतिर्विश्वस्य भूमनो व्यख्यद्रो दसी उभे ।

इत्युभयोरेवाह्नोस्समारम्भाय ।

यथा ह वा इदं श्रमणं व्यवलम्बमानं नयेदेवं ह वा एतदहरेते अहनी नयतो बार्हतं राथन्तरे ।

तासु गौरिवीतमुक्तब्राह्मणम् ३१