०३०

तासु सीदन्तीयम् ।

देवा वा अकामयन्त स्वर्गे लोके सीदेमेति ।

त एतत्सामापश्यन् ।

तेनास्तुवत ।

ततो वै ते स्वर्गे लोकेऽसीदन् ।

स्वर्गे लोके सीदामेति सत्रमासते ।

स्वर्ग एव लोके सीदन्ति ।

यदु देवा एतेन साम्ना स्वर्गे लोकेऽसीदंस्तस्मात्सीदन्तीयमित्याख्यायते ।

तद्वेवाचक्षते शङ्क्विति ।

शङ्कुना वै तद्दृंहन्ति यद्दधिषेण्यं भवति ।

दधिषेण्यमिवैतदहर्यद्द्वितीयम् ।

तस्माद्द्वितीयेऽहन्क्रियते ।

इन्द्र मच्छ सुता इमे वृषणं यन्तु हरयः ।

श्रुष्टे जातास इन्दव स्वर्विदः ।

इत्यृचा वै पूर्वमह स्वर्वत्क्रियते । साम्नैतत् ।

राथन्तरं हि पूर्वमहर् । बार्हतमेतत् ३०