०२९

प्रोक्तिश्च ह खलु वा एते सामनी हविषो निरुक्तिश्च ।

तद्यद्धाविष्मतं द्वितीयेऽहनि भवति । हविष्मन्त स्म इत्येवैतद्देवेभ्यः प्राहुः ।

हविष्मन्त इव ह्येतर्हि भवन्ति ।

अथ यद्धाविष्कृतं नवमेऽहनि भवति । हविष्कृत स्म इत्येवैतद्देवेभ्यो निराहुः ।

हविष्कृत इव हि तर्हि भवन्ति ।

ते ह वा एते सामनी प्रोक्तिश्चैव हविषो निरुक्तिश्च ।

यदु हविष्मांश्च हविष्कृच्चाङ्गिरसावपश्यतां तस्माद्धाविष्मत-हाविष्कृते इत्याख्यायेते ।

पवस्व मधुमत्तम

इति मधुमतीः ककुभो भवन्ति ।

रसो वै मदः ।

धीतमिवैतद्यत्तृतीयसवनम् ।

तद्यदेता मधुमतीर्भवन्ति रसमेवास्मिन्नेतद्दधत्यैवैनदेतेन प्याययन्ति ।

इन्द्रा य सोम ऋतुवित्तमो मदः ।

महि द्युक्षतमो मदः ।

इत्यभिपूर्वमेवास्मिंस्तद्र सं मदं दधति २९