यस्ते मदो वरेण्य
इत्यार्भवस्य पवमानस्य मद्वतीर्गायत्र्यो भवन्ति ।
रसो वै मदः ।
धीतमिवैतद्यत्तृतीयं सवनम् ।
तद्यदेता मद्वतीर्भवन्ति रसमेवास्मिन्नेतद्दधत्यैवैनदेतेन प्याययन्ति ।
तेना पवस्वान्धसेत्यन्धस्वतीर्भवन्त्यन्नं वा अन्धोऽन्नाद्यस्यैवावरुद्ध्यै ।
जघ्निर्वृत्रममित्रियम्
इति त्रैष्टुभं रूपम् ।
यद्वै घ्नद्वत्तत्त्रिष्टुभो रूपम् ।
क्षत्रं हि त्रिष्टुप् ।
सम्मिश्लो अरुषो भुवस्सूपस्थाभिर्न धेनुभिर्
इति प्रद्रुतमिव वा इत एतदहर्यद्बार्हतम् ।
अदो हि बृहत् ।
तद्यत्सूपस्थाभिरित्यह्न एवोपस्थित्यै ।
तासु गायत्रमुक्तब्राह्मणम् ।
अथ हाविष्मतं परिष्टोभवद्बहिर्निधनं बार्हतम् ।
तस्माद्बार्हतेऽहन्क्रियते ।
हविष्मांश्च वै हविष्कृच्चाङ्गिरसावङ्गिरसां स्वर्गं लोकं यताम् । अहीयेताम् ।
तावकामयेतामनूत्पतेव स्वर्गं लोकं यताम् । अहीयेताम् ।
तावकामयेतामनूत्पतेव स्वर्गं लोकमिति ।
तौ तपोऽतप्येताम् ।
तावेते सामनी अपश्यताम् ।
ताभ्यामस्तुवताम् ।
तौ स्तुत्वेव हविष्मते हविष्कृत इत्येव स्वर्गं लोकमनूदपतताम् ।
पशवो ह खलु वै हविष्मन्तः । पशवो हविष्कृतः ।
पशून्वाव तौ तदेताभ्यामवारुन्धेताम् ।
तैरु पशुभिरिष्ट्वा स्वर्गमेव लोकमगच्छताम् ।
ते एते पशव्ये स्वर्ग्ये सामनी ।
अव पशून्रुन्द्धे गच्छति स्वर्गं लोकं य एवं वेद २८