०२७

तासु माधुच्छन्दसम् ।

मधुच्छन्दा वै वैश्वामित्रोऽकामयताग्र्यो मुख्यो ब्रह्मवर्चसी स्यामिति ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

ततो वै सोऽग्र्यो मुख्यो ब्रह्मवर्चस्यभवत् ।

अग्र्या मुख्या ब्रह्मवर्चसिनोऽसामेति सत्रमासते ।

अग्र्या एव मुख्या ब्रह्मवर्चसिनो भवन्ति ।

यदु मधुच्छन्दा वैश्वामित्रोऽपश्यत्तस्मान्माधुच्छन्दसमित्याख्यायते ।

तदैळमच्छावाकसाम भवति ।

पशवो वा इळा ।

पशुष्वेवैतत्प्रतितिष्ठन्ति २७