०२६

वासिष्ठं तु कार्यतरमाहुः ।

क्षत्रमेतद्यत्पार्थं । क्षत्रमेतद्यत्सोमसामनी । क्षत्रमेतदहः । क्षत्रं तेन यदैन्द्रं । क्षत्रं तेन यत्त्रैष्टुभं । क्षत्रं तेन यद्बार्हतं । क्षत्रं तेन यत्पञ्चदशस्तोमः ।

एकधैव क्षत्रं भवति ।

तद्यत्पुरस्ताद्यौक्ताश्वं भवति वासिष्ठमुपरिष्टादृषिसामनी ब्रह्मण एव स विवधतायै ।

ब्रह्म क्षत्रेण समद्याम्यसदिति ।

वसिष्ठो वै जीतो हतपुत्रोऽकामयत बहुः प्रजया पशुभिः प्रजायेयेति ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

ततो वै स बहुः प्रजया पशुभिः प्राजायत ।

तदेतत्प्रजननं साम ।

बहुः प्रजया पशुभिः प्रजायते य एवं वेद ।

यदु वसिष्ठोऽपश्यत्तस्माद्वासिष्ठमित्याख्यायते ।

अथ बृहत् ।

वर्ष्म वै बृहत् ।

वर्ष्मण्येवैतत्प्रतितिष्ठन्तो यन्ति ।

अथ वामदेव्यम् ।

पशवो वै वामदेव्यम् ।

पशुमन्त एव भवन्त्येनेन तुष्टुवानाः ।

अथ श्यैतं । साम्नोर्विवाहो यज्ञस्य सन्ततिः ।

एकं वावाहस्तद्यत्

त्वामिदा ह्यो नर

इति भवति ।

तेनैव द्वितीयमहः क्रियते २६