तासु पार्थं द्वियभ्यासं द्वितीयस्याह्नो रूपं परिष्टोभवद्बार्हतम् ।
तस्माद्बार्हतेऽहन्क्रियते ।
पृथुर्वै वैन्योऽकामयत सर्वेषां पशूनां राज्याय सूयेयेति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै स सर्वेषां पशूनां राज्याय सूयेयत ।
स एतच्छ्रीस्साम ।
सर्वेषां पशूनां राज्याय सूयते य एवं वेद ।
तदु स्तोभप्रस्तावं स्वरं भवति स्वराणां विभक्त्यै ।
एतद्ध्येतस्याह्न स्वारं यत्स्तोभप्रस्तावम् ।
स्वारमूर्ध्वमिवैतदहर् । ऊर्ध्वमिवैतत्साम ।
अहरेवैतेन रोहति तुष्टुवानः ।
यदु पृथुर्वैन्योऽपश्यत्तस्मात्पार्थमित्याख्यायते २५