०२४

स ओ इ ज्वरेत्येव निधनमुपैत् ।

ततो वै स श्रद्धामुपहवमविन्दत ।

श्रद्धां विन्दामहा इति सत्रमासते ।

श्रद्धामेव विन्दन्ते ।

एतद्ध वै वाचस्सत्यं यद्

ओ इ ज्वरे

ति ।

ज्वरेतीव ह वै चाचस्सत्यम् ।

सत्येन वै स तद्वाचश्श्रद्धामुपहवमविन्दत ।

श्रद्धानीयो भवति । विन्दत उपहवं य एवं वेद ।

तदु प्रजनिष्णु पशव्यं साम ।

ओ इ ज्वरे

ति निधनं भवति ।

अज्यत इति पशुं प्रवीयमाणमाहुः ।

अज्वरा हास्य पशवः प्रजनिष्णवो भवन्ति य एवं वेद ।

यदु युक्ताश्वोऽपश्यत्तस्माद्यौक्ताश्वमित्याख्यायते ।

पुनानस्सोम धारये

त्युभयरूपा बृहती भवति ।

एषा ह वा उभे सामनी उद्ययाम ।

तस्मादेतां कुर्वन्त्येव बृहत्साम्नः कुर्वन्ति रथन्तरसाम्नः ।

तासु सोमसामनी परिष्टोभवती बार्हते ।

तस्माद्बार्हतेऽहनि क्रियेते ।

वृषा वै सोमो । वृषेन्द्र । षन्द्र मेतदहः ।

क्षत्रं वै सोमः । क्षत्रमिन्द्र । षन्द्र मेतदहः ।

रेतो वै सोमः प्रजननमेतदहः ।

तद्यदेते सामनी एतस्मिन्नहनि क्रियेते प्रजनन एवैतद्रे तस्सिच्यते ।

अनुष्ठ्यास्य रेतस्सिक्तं प्रजापते य एवं वेद ।

ऊर्ध्वेळमन्यद्भवति बृहतो रूपं बार्हतेऽहन् ।

बार्हतमन्यत्त्रिणिधनं माध्यन्दिनस्य रूपं पवमानस्य धृत्यै ।

यदु सोमो राजाऽपश्यत्तस्मात्सोमसामनी इत्याख्यायेते ।

वृषा शोणो अभिकनिक्रदद्गा

इति वृषण्वतीर्भवन्ति ।

बार्हतं वा एतदहस्त्रैष्टुभं क्षत्रस्य रूपम् २४