वृषा पवस्व धारये
ति माध्यन्दिनस्य पवमानस्य वृषण्वतीर्गायत्र्यो भवन्ति ।
बार्हतं वा एतदहः ।
त्रैष्टुभं क्षत्रस्य रूपम् ।
मरुत्वते च मत्सर
इति मरुत्वतीर्भवन्ति ।
मरुत्वद्वै मध्यन्दिनस्य रूपम् ।
मध्यन्दिनस्यैव तद्रू पान्न यन्ति ।
तं त्वा धर्तारमोण्योर्
इत्यह्न एव धृत्यै ।
अया चित्तो विपानया हरिः पवस्व धारये
ति हरिवतीर्भवन्ति ।
हरिवद्वै त्रिष्टुभो रूपम् ।
त्रैष्टुभमेतदहः ।
तासु गायत्रमुक्तब्राह्मणम् ।
अथ यौक्ताश्वं परिष्टोभवद्बहिर्निधनं बार्हतम् ।
तस्माद्बार्हतेऽहन्क्रियते ।
वसिष्ठो वै सुदासः पैजवनस्यैक्ष्वाकस्य राज्ञः पुरोहित आस ।
स सुदाः पैजवनो वसिष्ठे वळवान्न्यधत्त यथा पुरोहिते निदधते तथा ।
वसिष्ठस्सनिं प्रयन्नब्रवीद्युक्ताश्वं कनीयांसं भ्रातरमेतेषां नो भार्याणामध्यक्षः स्या इति ।
स युक्ताश्वो राजवळवानां शिशूञ्जातान्विपर्यहरत् ।
ये कल्याणा आसंस्तानात्मनेऽकृत ।
ये पापीयांसस्तान्राजवळवासु ।
ते तदन्वबुध्यन्त शिशून्ह जातान्विपर्यहार्षीदिति ।
तमबाधन्त –स्तेनोऽस्यनृषिरिति ।
सोऽकामयत श्रद्धां विन्देयोप मा ह्वयेरन्निति ।
स एतत्सामापश्यत् ।
तेनास्तुत २३