अग्निं दूतं वृणीमह
इत्याग्नेयं आज्यं भवति ।
प्रेत्यन्य ऋषयोऽपश्यन्नेत्यन्ये ।
अथैतन्न प्रेति नेति स्थितम् ।
वाचो बार्हतं रूपं भरद्वाज ऋषिरपश्यत् ।
भरद्वाजस्य वा एतदार्षेयं यद्बृहत् ।
मनो बृहत् ।
प्रजापतिर्बृहत् ।
प्रजापतितामेवाश्नुते य एवं वेद ।
होतारं विश्ववेदसमिति ।
हो इति भवति बृहतो रूपम् ।
बार्हतमेतदहः ।
मित्रं वयं हवामह । इन्द्र मिद्गाथिनो बृहद् ।
इन्द्रे अग्ना नमो बृहद्
इत्येकरूपाण्याज्यानि भवन्ति । सर्वाण्येव बार्हतानि ।
क्षत्रं वा एतदहः ।
तस्मात्सर्वे राजान एकमन्त्रा एकवचसः ।
महद्वती द्वे भवतो बृहद्वती द्वे ।
एतद्वै प्रत्यक्षं बृहतो रूपं यन्महद्यद्बृहत् ।
बृहदेवैतत्प्रत्यक्षमुपयन्ति ।
पञ्चदशस्तोमो भवति -इन्द्रि यं वै वीर्यं पञ्चदश -इन्द्रि य एवैतद्वीर्ये प्रतितिष्ठन्तो यन्ति २२