०२१

ता एता भवन्ति गायत्र्यस्त्रिष्टुब्वर्णा अह्नो रूपेण समृद्धाः ।

यत्र वा अहारूपेण समर्धयन्ति सं तत्रर्ध्यन्ते ।

समस्मा ऋध्यते य एवं वेद ।

पवस्वेन्दो वृषा सुत

इति वृषण्वाननुरूपो भवति ।

बार्हतं वा एतदहः ।

त्रैष्टुभं क्षत्रस्य रूपम् ।

तदाहुरह्न एव रूपं स्तोत्रियेणारभन्तेऽनुरूपेण साम्न इति ।

स्तोत्रियानुरूपौ भवतः ।

प्राणो वै स्तोत्रियेणारभन्तेऽनुरूपेण साम्न इति ।

स्तोत्रियानुरूपौ भवतः ।

प्राणो वै स्तोत्रियोऽपानोऽनुरूपः ।

प्राणापानाभ्यामेवैतत्समृध्य प्रयन्ति ।

मनो वै स्तोत्रियो । वागनुरूपः ।

साम वै स्तोत्रिय । ऋगनुरूपः ।

अहर्वै स्तोत्रियो । रात्रिरनुरूपः ।

इयं वै स्तोत्रियोऽसावनुरूपः ।

आत्मा वै स्तोत्रियः । प्रजानुरूपः ।

स्तोत्रियानुरूपयोर्ह खलु वै तद्रू पं । यस्माद्यां श्रेष्ठीं वाचं वदति तां पापीयाननुवदति । यस्मात्कर्ता च करणश्च सदृशौ सन्तौ विज्ञायेते ।

स्तोत्रियानुरूपयोर्वै हेतोः प्रजा अनुरूपा आजायन्त ।

आ हास्यानुरूपः प्रजायां जायते य एवं वेद ।

तदाहुर्वीव वा एते प्राणैरृध्यन्ते ये प्रायणीयस्याह्नस्तृचान्विच्छिन्दन्तीति ।

सन्ततानत्र पञ्च तृचानुपयन्ति प्राणानामेव सन्तत्या अव्यवच्छेदाय ।

सर्वे वृषण्वन्तो भवन्ति ।

बार्हतं वा एतदहः ।

त्रैष्टुभं क्षत्रस्य रूपम् ।

पर्यासो भवति प्रजानां धृत्यै पशूनामुपस्थित्यै ।

पञ्चदशस्तोमो भवति -इन्द्रि यं वै वीर्यं पञ्चदश -इन्द्रि य एवैतद्वीर्ये प्रतितिष्ठन्तो यन्ति २१