०२०

पवस्व वाचो अग्रिय

इति प्रतिपदो भवन्ति ।

बृअद्र थन्तरे यदसृज्येतां बृहत्पूर्वमसृज्यताथ रथन्तरम् ।

तस्मात्

पवस्व वाचोऽग्रिय

इति प्रतिपदो भवन्ति ।

प्रेत्यन्य ऋषयोऽपश्यन्नेत्यन्ये ।

अथैतन्न प्रेति नेति स्थितम् ।

वाचो बार्हतं रूपं भरद्वाज ऋषिरपश्यत् ।

भरद्वाजस्य वा एतदार्षेयं यद्बृहत् ।

मनो बृहत् ।

प्रजापतिर्बृहत् ।

प्रजापतितामेवाश्नुते य एवं वेद ।

सोम चित्राभिरूतिभिरभि विश्वानि काव्या

त्वं समुद्रि या अप इति ।

त्वमिति भवति बृहतो रूपम् ।

बार्हतमेतदहः ।

अग्रियो वाच ईरयन्न्

इत्यग्रं वा एतदहः ।

द्वितीयं वा एतदहस्सत्तदग्रमित्याख्यायते ।

तुभ्येमा भुवना कवे महिम्ने सोम तस्थिर इति ।

प्रद्रुतमिव वा इत एतदहर्यद्बार्हतम् ।

अदो हि बृहत् ।

तद्यन्

महिम्ने सोम तस्थिर

इत्यह्न एवोपस्थित्यै ।

तुभ्यं धावन्ति धेनव

इति समष्ट्यै २०