अथ त्वाषृतीसाम मध्येनिधनं भवति प्रतिष्ठायै ।
समुद्रं वा एतेनारम्भणं प्रप्लवन्ते य आर्भवं पवमानमुपयन्ति ।
तद्यन्मध्येनिधनं भवति प्रतिष्ठित्या एव ।
तस्य पुरस्तान्निधनस्य प्रतिहारमुपयन्ति ।
प्रस्तावप्रतिहाराभ्यां वै यजमानो धृतः ।
प्रद्रुतमिवैतदहर्यत्त्रिवृत् ।
तद्यत्पुरस्तान्निधनस्य प्रतिहारमुपयन्त्यप्रस्रंसायैव ।
इन्द्रो वृत्रं वज्रेणाध्यस्य नास्तृषीति मयमानो गाः प्राविशत् ।
ता अकामयन्तेन्द्रं जनयेमेति ।
ता एतानि सामान्यपश्यंस्त्वाष्ट्रीसामानि ।
तैरिन्द्र मजनयन् ।
तानि वा एतानि वीरजननानि सामानि ।
आस्य वीरो जायते य एवं वेद ।
अथो पशवो वै त्वाष्ट्र्यः ।
तद्यदेतानि सामानि भवन्ति पशूनामेवावरुध्यै ।
तदैळं भवति पशवो वा इळा पशूनामेवावरुद्ध्यै ।
यदु त्वाष्ट्र्योऽपश्यंस्तस्मात्त्वाष्ट्रीसामेत्याख्यायते ।
अभि प्रियाणि पवते चनोहित
इत्यभीति भवति रथन्तरस्य रूपम् ।
राथन्तरमेतदहः ।
तासु कावमुक्तब्राह्मणम् ।
अथ यज्ञायज्ञीयमुक्तब्राह्मणम् १९